(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.25. अध्यायः 025
Mahabharata - Udyoga Parva - Chapter Topics
सञ्जयेन युद्धनिन्दापूर्वकं पाण्डवैः शमस्वीकारस्य भीष्मधृतराष्ट्राद्यभिमतत्वकथनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text

युधिष्ठिर उवाच। 5-25-0x(3425)(32438)
समागताः पाण्डवाः सृञ्जयाश्च
जनार्दनो युयुधानो विराटः।
यत्ते वाक्यं धृतराष्ट्रानुशिष्टं
गावल्गणे ब्रूहि तत्सूतपुत्र ॥ 5-25-1(32439)
संजय उवाच। 5-22-2x(3426)
अजातशत्रुं च वृकोदरं च
धनञ्जयं माद्रवतीसुतौ च।
आमन्त्रये वासुदेवं च शौरिं
युयुधानं चेकितानं विराटम् ॥ 5-25-2(32440)
पञ्चालानामधिपं चैव वृद्धं
धृष्टद्युम्नं पार्षतं याज्ञसेनिम् ।
सर्वे वाचं शृणुतेमां मदीयां
वक्ष्यामि यां भूतिमिच्छन्कुरूणाम् ॥ 5-25-3(32441)
शमं राजा धृतराष्ट्रोऽभिनन्द-
न्नयोजयत्त्वरमाणो रथं मे।
सभ्रातृपुत्रस्वजनस्य राज्ञ-
स्तद्रोचतां पाण्डवानां शमोऽस्तु ॥ 5-25-4(32442)
सर्वैर्धर्मैः समुपेतास्तु पार्थाः
संस्थानेन मार्दनेवार्जवेन।
जाताः कुले ह्यनृशंसा वदान्या
हीनिषेवाः कर्मणां निश्चयज्ञाः ॥ 5-25-5(32443)
न युज्यते कर्म युष्मासु हीनं
सत्वं हि वस्तादृशं भीमसेनाः ।
उद्भासते ह्यञ्जनबिन्दुवत्त-
च्छुभ्रे वस्त्रे यद्भवेत्किल्बिषं वः ॥ 5-25-6(32444)
सर्वक्षयो दृश्यते यत्र कृत्स्नः
पापोदयो भावसंस्थः कुरूणाम्।
कस्तत्र कुर्याञ्जातु कर्म प्रजानन्
पराजयो यत्र समो जयश्च ॥ 5-25-7(32445)
ते वै धन्या यैः कृतं ज्ञातिकार्यं
ते वै पुत्राः सुहृदो बान्धवाश्च।
उपक्रुष्टं जीवितं सन्त्यजेयु-
र्यतः कुरूणां नियतो वै भवः स्यात् ॥ 5-25-8(32446)
ते चेत्कुरूननुशिष्याथ पार्था
निर्णीय सर्वान्द्विषतो निगृह्य।
समं वस्तज्जीवितं मृत्युन स्या-
द्यज्जीवध्वं ज्ञातिवधेन साधु ॥ 5-25-9(32447)
को ह्येव युष्मान्सह केशवेन
सचेकितानान्पार्षतबाहुगुप्तान्।
ससात्यकीन्विषहेत प्रजेतुं
लब्ध्वाऽपि देवान्सचिवान्सहेन्द्रान् ॥ 5-25-10(32448)
को वा कुरून्द्रोणभीष्माभिगुप्ता-
नश्वत्थाम्ना शल्यकृपादिभिश्च।
रणे विजेतुं विषहेत राजन्
राधेयगुप्तान्सह भूमिपालैः ॥ 5-25-11(32449)
महद्बलं धार्तराष्ट्रस्य राज्ञः
को वै शक्तो हन्तुमक्षीयमाणः ।
सोऽहं जये चैव पराजये च
निःश्रेयसं नाधिगच्छामि किंचित् ॥ 5-25-12(32450)
कथं हि नीचा इव दौष्कुलेया
निर्धर्मार्थं कर्म कुर्युश्च पार्थाः ।
सोऽहं प्रसाद्य प्रणतो वासुदेवं
पञ्चालानामधिपं चैव वृद्धम् ॥ 5-25-13(32451)
कृताञ्जलिः शरणं वः प्रपद्ये
कथं स्वस्ति स्यात्कुरुसृञ्जयानाम्।
न ह्येवमेवं वचनं वासुदेवो
धनञ्जयो वा जातु किंचिन्न कुर्यात् ॥ 5-25-14(32452)
प्रणान्दद्याद्याचमानः कुतोऽन्य-
देतद्विद्वन्साधनार्थं ब्रवीमि ।
एतद्राज्ञो भीष्मपुरोगमस्य
मतं यद्वः शान्तिरिहोत्तमा स्यात् ॥ ॥ 5-25-15(32453)

इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि पञ्चविंशोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-25-4 रथमयोजयत्। इह आगन्तुम्। राज्ञः तत् वचनं पाण्डवानां रोचतां ततश्च शमोऽस्तु ॥ 4 ॥ 5-25-5 संस्थानेनाकारेण। मार्दवेन कृपया। आर्जवेन अकौटिल्येन। अनृशंसाः अनुग्राः । ह्रीनिषेवाः लज्जापरायणाः ॥ 5 ॥ 5-25-6 हीनं हिंस्रं सत्त्वं बुद्धिसत्वं साधुत्वं वा। भीमसेनाः भीषणसैन्याः ॥ 6 ॥ 5-25-7 यत्र सङ्ग्रामे भावसंस्थः स इति शेषः ॥ 7 ॥ 5-25-8 ज्ञातीनां दुर्योधनादीनां कार्यं घोषयात्रायां गन्धर्वेभ्यो मोचनादिकं उपक्रुष्टं निन्दितम् ॥ 8 ॥ 5-25-9 निर्णीय निश्चयं कृत्वा। निगृह्य हत्वेत्यर्थः ॥ 9 ॥ 5-25-12 निःश्रेयसं निश्चयम् ॥ 12 ॥ 5-25-13 निर्धर्मार्थं धर्मार्थयोर्विरुद्धं कम कथं कुर्युः । प्रणतः अस्मीति शेषः ॥ 13 ॥ 5-25-14 साधनार्थं संधिकार्यस्य सिद्ध्यर्थं ब्रवीमि नतु युष्मान् भीषयामीत्यर्थः ॥ 15 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.